The Ganapati Atharvashirsha also known as Ganapati Upanishad is a well know Sanskrit stotram dedicated to Lord Ganesha. This Upanishad is listed at 89th in a list of 108 Upanishads given by Lord Rama to Lord Hanuman. It asserts the Lord Ganesha is same as the underlying eternal reality i.e. the Brahman. This Upanishad also mentions that Ganesha reside in the lowermost Chakra which is also know as Mooladhara Chakra and has corresponding mantra – Lam.
अथ श्री गणपति अथर्वशीर्षम्।
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।।
स्थिरैरङ्गैस्तुष्टुवाङ्ग्-सस्तनूभिः । व्यशेम देवहितं यदायूः ।।
स्वस्ति न इन्द्रो वृद्धश्रवा । स्वस्ति नः पूषा विश्ववेदाः ।।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो वृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः।
ॐ नमस्ते गणपतये ।।1।।
त्वमेव प्रत्यक्षं तत्त्वमसि । त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि । त्वं साक्षादात्माऽसि नित्यं ।।2।।
ऋतं वच्मि सत्यं वच्मि ।।3।।
अव त्वं माम् । अव वक्तारम्। अव श्रोतारम्। अव दातारम्। अव धातारम्। अवानूचानमव शिष्यम्।
अव पुरस्तरात्। अव दक्षिणात्तात्। अव पश्चात्तात्। अवोत्तरात्तात्।अव चोर्ध्वात्तात्। अवोधरात्तात्।
सर्वतो मां पाहि पाहि समन्तात् ।।4।।
त्वं वाङ्मयस्त्वं चिन्मयः। त्वमानन्दमयस्त्वं ब्रह्ममयः। त्वंसच्चिदानन्दाऽद्वितीयोऽसि । त्वं ज्ञानमयो विज्ञानमयोऽसि ।।5।।
सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदंत्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति। सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक् परिमिता पदानि । त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः।
त्वं देहत्रयातीतः। त्वं कालत्रयातीतः। त्वं मूलाधारस्थितोऽसिनित्यं । त्वं शक्तित्रयात्मकः। त्वं योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं । रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं । वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं । ब्रह्म भूर्भुवस्सुवरोम् ।।6।।
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम्। अनुस्वारः परतरः। अर्धेन्दुलसितम् । तारेण ऋद्धम् । एतत्तव मनुस्वरूपं ।।7।।
गकारः पूर्वरूपम् । अकारो मध्यरूपम्। अनुस्वारश्चान्त्यरूपम्। बिन्दुरुत्तररूपम्। नादस्सन्धानम्। संहिता संधिः ।।8।।
सैषा गणेशविद्या। गणक ऋषिः। निचृद्गायत्रीच्च्हन्दः। गणपतिर्देवता।
ॐ गं गणपतये नमः ।।9।।
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्तिः प्रचोदयात् ।।10।।
एकदन्तं चतुर्हस्तं पाशमङ्कुश्धारिणम्। रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्। रक्तं लंबोदरं शूपकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्त्पुष्पैस्सुपूजितं । भक्तानुकम्पिनम् देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ।।11।।
नमो व्रातपतये । नमो गणपतये । नमः प्रथमपतये । नमस्तेअस्तु लम्बोदरायैकदन्ताय। विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ।।12।।
एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते । स सर्वविघ्नैर्न बाध्यते । स सर्वत्र सुखमेधते । स पञ्चमहापापात्प्रमुच्यते।
सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो पापोऽपापो भवति।
सर्वत्राधीयानोऽपविघ्नो भवति । धर्मार्थकाममोक्षं च विन्दति ।।13।।
इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाद्दास्यति स पापीयान् भवति । सहस्रावर्तनाद्यम् यं काममधीते तं तमनेन साधयेत् ।।14।।
अनेन गणपतिमभिषिन्चति स वाग्मी भवति । चतुर्थ्यामनश्नन जपति स विद्यावान् भवति । इत्यथर्वणवाक्यम् ।ब्रह्माद्यावरणं विद्यान्न विभेति कदाचनेति ।।15।।
यो दुर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति । स मेधावान भवति ।
यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति । यस्साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ।।16।।
अष्टौ ब्राह्मणान सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहेमहानद्याम् प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति ।
महाविघ्नात प्रमुच्यते । महादोषात् प्रमुच्यते । महाप्रत्यवायात् प्रमुच्यते । स सर्वविद् भवति स सर्वविद् भवति।
य एवं वेद । इत्युपनिषत् ।।17।।
ॐ शान्तिः शान्तिः शान्तिः ।
Om Gan Ganpataye Namah